हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Taittiriya Upanishad Bhriguvalli – तैत्तिरीयोपनिषत् – ३. भृगुवल्ली


ओं स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ।
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥

(तै।आ।९।१।१)

भृगु॒र्वै वा॑रु॒णिः । वरु॑णं॒ पित॑र॒मुप॑ससार ।
अधी॑हि भगवो॒ ब्रह्मेति॑ । तस्मा॑ ए॒तत्प्रो॑वाच ।
अन्नं॑ प्रा॒णं चक्षु॒श्श्रोत्रं॒ मनो॒ वाच॒मिति॑ ।
तग्ं हो॑वाच । यतो॒ वा इ॒मानि॒ भूता॑नि॒ जाय॑न्ते ।
येन॒ जाता॑नि॒ जीव॑न्ति ।
यत्प्रय॑न्त्य॒भिसंवि॑शन्ति । तद्विजि॑ज्ञासस्व । तद्ब्रह्मेति॑ ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ १ ॥

इति प्रथमोऽनुवाकः ॥

अन्नं॒ ब्रह्मेति॒ व्य॑जानात् ।
अ॒न्नाद्ध्ये॑व खल्वि॒मानि॒ भुता॑नि॒ जाय॑न्ते ।
अन्ने॑न॒ जाता॑नि॒ जीव॑न्ति ।
अन्नं॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ ।
पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार ।
अधी॑हि भगवो॒ ब्रह्मेति॑ । तग्ं हो॑वाच ।
तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ १ ॥

इति द्वितीयोऽनुवाकः ॥

प्रा॒णो ब्र॒ह्मेति॒ व्य॑जानात् ।
प्रा॒णाद्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते ।
प्रा॒णेन॒ जाता॑नि॒ जीव॑न्ति ।
प्रा॒णं प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ ।
पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार ।
अधी॑हि भगवो॒ ब्रह्मेति॑ । तग्ं हो॑वाच ।
तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ १ ॥

इति तृतीयोऽनुवाकः ॥

मनो॒ ब्रह्मेति॒ व्य॑जानात् ।
मन॑सो॒ ह्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते ।
मन॑सा॒ जाता॑नि॒ जीव॑न्ति ।
मन॒: प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ ।
पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार ।
अधी॑हि भगवो॒ ब्रह्मेति॑ । तग्ं हो॑वाच ।
तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ १ ॥

इति चतुर्थोऽनुवाकः ॥

वि॒ज्ञानं॒ ब्रह्मेति॒ व्य॑जानात् ।
वि॒ज्ञाना॒द्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते ।
वि॒ज्ञाने॑न॒ जाता॑नि॒ जीव॑न्ति ।
वि॒ज्ञानं॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ ।
पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार ।
अधी॑हि भगवो॒ ब्रह्मेति॑ । तग्ं हो॑वाच ।
तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ १ ॥

इति पञ्चमोऽनुवाकः ॥

आ॒न॒न्दो ब्र॒ह्मेति॒ व्य॑जानात् ।
आ॒नन्दा॒द्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते ।
आ॒न॒न्देन॒ जाता॑नि॒ जीव॑न्ति ।
आ॒न॒न्दं प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ ।
सैषा भा᳚र्ग॒वी वा॑रु॒णी वि॒द्या । प॒र॒मे व्यो॑म॒न्प्रति॑ष्ठिता ।
स य ए॒वं वेद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति ।
म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ ।
म॒हान्की॒र्त्या ॥ १ ॥

इति षष्ठोऽनुवाकः ॥

अन्नं॒ न नि॑न्द्यात् । तद्व्र॒तम् । प्रा॒णो वा अन्नम्᳚ ।
शरी॑रमन्ना॒दम् । प्रा॒णे शरी॑रं॒ प्रति॑ष्ठितम् ।
शरी॑रे प्रा॒णः प्रति॑ष्ठितः । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् ।
स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति ।
अन्न॑वानन्ना॒दो भ॑वति ।
म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान्की॒र्त्या ॥ १ ॥

इति सप्तमोऽनुवाकः ॥

अन्नं॒ न परि॑चक्षीत । तद्व्र॒तम् । आपो॒ वा अन्नम्᳚ ।
ज्योति॑रन्ना॒दम् । अ॒प्सु ज्योति॒: प्रति॑ष्ठितम् ।
ज्योति॒ष्याप॒: प्रति॑ष्ठिताः । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् ।
स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति ।
अन्न॑वानन्ना॒दो भ॑वति ।
महा॒न्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ ।
म॒हान्की॒र्त्या ॥ १ ॥

इत्यष्टमोऽनुवाकः ॥

अन्नं॑ ब॒हु कु॑र्वीत । तद्व्र॒तम् । पृ॒थि॒वी वा अन्नम्᳚ ।
आ॒का॒शो᳚ऽन्ना॒दः । पृ॒थि॒व्यामा॑का॒शः प्रति॑ष्ठितः ।
आ॒का॒शे पृ॑थि॒वी प्रति॑ष्ठिता ।
तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् ।
स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति ।
अन्न॑वानन्ना॒दो भ॑वति ।
म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ ।
म॒हान्की॒र्त्या ॥ १ ॥

इति नवमोऽनुवाकः ॥

न कञ्चन वसतौ प्रत्या॑चक्षी॒त । तद्व्र॒तम् ।
तस्माद्यया कया च विधया बह्व॑न्नं प्रा॒प्नुयात् ।
अराध्यस्मा अन्नमि॑त्याच॒क्षते ।
एतद्वै मुखतो᳚ऽन्नग्ं रा॒द्धम् ।
मुखतोऽस्मा अ॑न्नग्ं रा॒ध्यते ।
एतद्वै मध्यतो᳚ऽन्नग्ं रा॒द्धम् ।
मध्यतोऽस्मा अ॑न्नग्ं रा॒ध्यते ।
एतद्वा अन्ततो᳚ऽन्नग्ं रा॒द्धम् ।
अन्ततोऽस्मा अ॑न्नग्ं रा॒ध्यते ॥ १ ॥

य ए॑वं वे॒द । क्षेम इ॑ति वा॒चि ।
योगक्षेम इति प्रा॑णापा॒नयोः ।
कर्मे॑ति ह॒स्तयोः । गतिरि॑ति पा॒दयोः । विमुक्तिरि॑ति पा॒यौ ।
इति मानुषी᳚स्समा॒ज्ञाः । अथ दै॒वीः । तृप्तिरि॑ति वृ॒ष्टौ ।
बलमि॑ति वि॒द्युति ॥ २ ॥

यश इ॑ति प॒शुषु । ज्योतिरिति न॑क्षत्रे॒षु ।
प्रजातिरमृतमानन्द इ॑त्युप॒स्थे । सर्वमि॑त्याका॒शे ।
तत्प्रतिष्ठेत्यु॑पासी॒त । प्रतिष्ठा॑वान्भ॒वति ।
तन्मह इत्यु॑पासी॒त । म॑हान्भ॒वति । तन्मन इत्यु॑पासी॒त ।
मान॑वान्भ॒वति ॥ ३ ॥

तन्नम इत्यु॑पासी॒त । नम्यन्ते᳚ऽस्मै का॒माः ।
तद्ब्रह्मेत्यु॑पासी॒त । ब्रह्म॑वान्भ॒वति ।
तद्ब्रह्मणः परिमर इत्यु॑पासी॒त ।
पर्येणं म्रियन्ते द्विषन्त॑स्सप॒त्नाः ।
परि ये᳚ऽप्रिया᳚ भ्रातृ॒व्याः ।
स यश्चा॑यं पु॒रुषे । यश्चासा॑वादि॒त्ये । स एक॑: ॥ ४ ॥

स य॑ एवं॒ वित् । अस्माल्लो॑कात्प्रे॒त्य ।
एतमन्नमयमात्मानमुप॑सङ्क्र॒म्य ।
एतं प्राणमयमात्मानमुप॑सङ्क्र॒म्य ।
एतं मनोमयमात्मानमुप॑सङ्क्र॒म्य ।
एतं विज्ञानमयमात्मानमुप॑सङ्क्र॒म्य ।
एतमानन्दमयमात्मानमुप॑सङ्क्र॒म्य ।
इमाँल्लोकन्कामान्नी कामरूप्य॑नुस॒ञ्चरन् ।
एतथ्साम गा॑यन्ना॒स्ते । हा ३ वु॒ हा ३ वु॒ हा ३ वु॑ ॥ ५ ॥

अ॒हमन्नम॒हमन्नम॒हमन्नम् ।
अ॒हमन्ना॒दोऽ॒३हमन्ना॒दोऽ॒३अहमन्ना॒दः ।
अ॒हग्ग् श्लोक॒कृद॒हग्ग् श्लोक॒कृद॒हग्ग् श्लोक॒कृत् ।
अ॒हमस्मि प्रथमजा ऋता३स्य॒ ।
पूर्वं देवेभ्यो अमृतस्य ना३भा॒यि॒ ।
यो मा ददाति स इदेव मा३वा॒: ।
अ॒हमन्न॒मन्न॑म॒दन्त॒मा३द्मि॒ ।
अहं॒ विश्वं॒ भुव॑न॒मभ्य॑भ॒वाम् ।
सुव॒र्न ज्योती᳚: । य ए॒वं वेद॑ । इत्यु॑प॒निष॑त् ॥ ६ ॥

इति दशमोऽनुवाकः ॥

॥ इति भृगुवल्ली समाप्ता ॥

ओं स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ।
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥


Veda Suktas – वेद सूक्तानि

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.